(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    

शान्तिपर्व (Mahabharat) - 12. शान्तिपर्व(महाभारत)


॥ श्रीः ॥
12.49. अध्यायः 049
Mahabharata - Shanti Parva - Chapter Topics
कृष्णेन भीष्मप्रशंसनपूर्वकं तंप्रति युधिष्ठिराय धर्मोपदेशचोदना॥ 1॥


Mahabharata - Shanti Parva - Chapter Text

वैशम्पायन उवाच। 12-49-0x(5452)(66716)
ततो रामस्य तत्कर्म श्रुत्वा राजा युधिष्ठिरः।
विस्मयं परमं गत्वा प्रत्युवाच जनार्दनम्॥ 12-49-1(66717)
अहो रामस्य वार्ष्णेय शक्रस्येव महात्मनः।
विक्रमो वसुधा येन क्रोधान्निःक्षत्रिया कृता॥ 12-49-2(66718)
गोभिः समुद्रेण तथा गोलाङ्गूलर्क्षवानरैः।
गुप्ता रामभयोद्विग्नाः क्षत्रियाणां कुलोद्वहाः॥ 12-49-3(66719)
अहो धन्यो नृलोकोऽयं समाग्याश्च नरा भुवि।
यत्र कर्मेदृशं धर्म्यं द्विजाग्र्यैः कृतमच्युत॥ 12-49-4(66720)
कथयन्तौ कथां तात तावच्युतयुधिष्ठिरौ।
जग्मतुर्यत्र गाङ्गेयः शरतल्पगतः प्रभुः॥ 12-49-5(66721)
ततस्ते ददृशुर्भीष्मं शरप्रस्तरशायिनम्।
स्वरश्मिमालासंवीतं सायंसूर्यसमप्रभम्॥ 12-49-6(66722)
उपास्यमानं मुनिभिर्देवैरिव शतक्रतुम्।
देशे परमधर्मिष्ठे नदीमोघवतीमनु॥ 12-49-7(66723)
दूरादेव तमालोक्य कृष्णो राजा च धर्मजः।
चत्वारः पाण्डवाश्चैव ते च शारद्वतादयः॥ 12-49-8(66724)
अवम्कन्द्याथ वाहेभ्यः संयम्य प्रचलं मनः।
एकीकृत्येन्द्रियग्राममुपतम्थुर्महामुनीन्॥ 12-49-9(66725)
अभिवाद्य तु गोविन्दः सात्यकिस्ते च पार्थिवाः।
व्यासादीस्तानृपीन्पश्चाद्गाङ्गेयमुपतस्थिरे॥ 12-49-10(66726)
तपोवृद्धि ततः पृष्ट्वा गाङ्गेयं यदुपुङ्गवः।
परिवार्य ततः सर्वे निपेदुः पुरुषर्षभाः॥ 12-49-11(66727)
ततो निशाम्य गाङ्गेयं शाम्यमानमिवानलम्।
किंचिद्दीनमना भीष्ममितिहोवाच केशवः॥ 12-49-12(66728)
कच्चिज्ज्ञानानि सर्वाणि प्रसन्नानि यथापुरम्।
कच्चिन्न व्याकुला चैव बुद्धिस्ते वदतां वर॥ 12-49-13(66729)
शराभिघातदुःखार्तं कच्चिद्गात्रं न दूयते।
मानसादपि दुःखाद्धि शारीरं बलवत्तरम्॥ 12-49-14(66730)
वरदानात्पितुः कामं छन्दमृत्युरसि प्रभो।
शन्तनोर्धर्मनित्यस्य न त्वेतदिह कारणम्॥ 12-49-15(66731)
सुमूक्ष्मोऽपि तु देहे वै शल्यो जनयते रुजम्।
किंपुनः शरसंघातैश्चितस्य तव पार्थिव॥ 12-49-16(66732)
कामं नैतत्तवाख्येयं प्राणिनां प्रभवाप्ययौ।
भवानुपदिशेच्छ्रेयो देवानामपि भारत॥ 12-49-17(66733)
यच्च भूतं भविष्यं च भवच्च पुरुषर्षभ।
सर्वं तज्ज्ञानवृद्धस्य तव पाणाविवाहितम्॥ 12-49-18(66734)
संसारस्येह भूतानां धर्मस्य च फलोदयः।
विदितस्ते महाप्राज्ञ त्वं हि धर्ममयो निधिः॥ 12-49-19(66735)
त्व, हि राज्ये स्थितं स्फीते समग्राङ्गमरोगिणम्।
स्त्रीसहस्रैः परिवृतं पश्यामीवोर्ध्वरेतसम्॥ 12-49-20(66736)
ऋते शान्तनवाद्भीष्मात्रिषु लोकेषु पार्थिवम्।
सत्यधर्मान्महावीर्याच्छूराद्धर्मैकतत्परात्॥ 12-49-21(66737)
मृत्युमावार्य तपसा शरसंस्तरशायिनः।
त्रिवर्गप्रभवं कंचिन्न च तातानुशुश्रुम॥ 12-49-22(66738)
सत्ये तपसि दाने च यज्ञाधिकरणे तथा।
धनुर्वेदे च वेदे च नित्यं चैवान्ववेक्षणे॥ 12-49-23(66739)
अनृशंसं शुचिं दान्तं सर्वभूतहिते रतम्।
महारथं त्वत्सदृशं न कंचिदनुशुश्रुम॥ 12-49-24(66740)
त्वं हि देवान्सगन्धर्वानसुरान्यक्षराक्षसान्।
शक्तस्त्वेकरथेनैव विजेतुं नात्र संशयः॥ 12-49-25(66741)
स त्वं भीष्म महाबाहो वसूनां वासवोपमः।
नित्यं विप्रैः समाख्यातो नवमोऽनवमो गुणैः॥ 12-49-26(66742)
अहं च त्वाऽभिजानामि स्वयं पुरुषसत्तम।
त्रिदशेष्वपि विख्यातस्त्वं शक्त्या पुरुषोत्तमः॥ 12-49-27(66743)
मनुष्येषु मनुष्येन्द्र न दृष्टो न च मे श्रुतः।
भवतो हि गुणैस्तुल्यः पृथिव्यां पुरुषः क्वचित्॥ 12-49-28(66744)
त्वं हि सर्वगुणै राजन्देवानप्यतिरिच्यसे॥ 12-49-29(66745)
तपसा हि भवाञ्शक्तः स्रष्टुं लोकांश्चराचरान्।
किंपुनश्चात्मनो लोकानुत्तमानुत्तमैर्गुणैः॥ 12-49-30(66746)
तदस्य तप्यमानस्य ज्ञातीनां संक्षयेन वै।
ज्येष्ठस्य पाण्डुपुत्रस्य शोकं भीष्म व्यपानुद॥ 12-49-31(66747)
ये हि धर्माः समाख्याताश्चातुर्वर्ण्यस्य भारत।
चातुराश्रम्यसंयुक्ताः सर्वे ते विदितास्तव॥ 12-49-32(66748)
चातुर्विद्ये च ये प्रोक्ताश्चातुर्होत्रे च भारत।
योगे साङ्ख्ये च नियता ये च धर्माः सनातनाः॥ 12-49-33(66749)
चातुर्वर्ण्यस्य यश्चोक्तो धर्मो न स्म विरुध्यते।
सेव्यमानः सवैयाख्यो गाङ्गेय विदितस्तव॥ 12-49-34(66750)
प्रतिलोमप्रसूतानां म्लेच्छानां चैव यः स्मृतः।
देशजातिकुलानां च जानीषे धर्मलक्षणम्। 12-49-35(66751)
वेदोक्तो यश्च शिष्टोक्तः सदैव विदितस्तव।
`प्रवृत्तश्च निवृत्तश्च स चापि विदितस्तव॥' 12-49-36(66752)
इतिहासपुराणार्थाः कार्त्स्न्येन विदितास्तव।
धर्मशास्त्रं च सकलं नित्यं मनसि ते स्थितम्॥ 12-49-37(66753)
ये च केचन लोकेऽस्मिन्नर्थाः संशयकारकाः।
तेषां छेत्ता नास्ति लोके त्वदन्यः पुरुषर्षभः॥ 12-49-38(66754)
स पाण्डवेयस्य मनःसमुत्थितं
नरेन्द्र शोकं व्यपकर्ष मेधया।
भवद्विधा ह्युत्तमबुद्धिर्विस्तरा
विमुह्यमानस्य जनस्य शान्तये॥ ॥ 12-49-39(66755)

इति श्रीमन्महाभारते शान्तिपर्वणि राजधर्मपर्वणि एकोनपञ्चाशोऽध्यायः॥ 49॥

Mahabharata - Shanti Parva - Chapter Footnotes

12-49-1 अवस्कन्द्यावरुह्य वाहेभ्यः॥ 12-49-11 यदुपुंगवो निपसादेति शेषः। ततो वृद्धं तथा दृष्ट्वा गाङ्गेयं यदुकौरवाः इति झ. पाठः॥ 12-49-12 निशाम्य आलोच्य॥ 12-49-15 छन्दमृत्युः इच्छामरणः। नत्वेतदिह कारणमिति ट. ड. थ. पाठः॥ 12-49-20 नहि राज्ये स्थितमिति ट.ड. पाठः॥ 12-49-21 भीष्मादृते मृत्युमावार्य स्थितं कमपि न शुश्रुमेति द्वयोः संबन्धः॥ 12-49-26 वसूनामष्टानामंशेर्घटितो नवमः गुणैरनवमश्च॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.